व्यासरचितमभिषेककरणम् -
गणाधिपो भानुशशी धरासुतो बुधोगुरुर्भार्गवसूर्यनन्दनः ।
राहुश्च केतु प्रभृतिर्नवग्रहाः कुर्वन्तु वः पूर्णमनोरथं सदा ।।
उपेन्द्र इन्द्रो वरुणो हुताशनो धर्मो यमोवायुहरिश्चतुर्भुजः ।
गन्धर्वयक्षोरगसिद्धचारणाः कुर्वन्तु वः पूर्णमनोरथं सदा।।
नलोदधीचिः सगरः पुरूरवाः शाकुन्तलेयो भरतोधनंजयः।
रामत्रयं वेणुबलिर्युधिष्ठिरः कुर्वन्तु वः पूर्णमनोरथं सदा ।।
मनुर्मरीचिर्भृगुदक्षनारदाः पराशरो व्यास वशिष्ठ भार्गवा ।
वाल्मीकिकुम्भोद्भवगर्गगौतमाः कुर्वन्तु वः पूर्णमनोरथं सदा।।
रम्भा शची सत्यवती च देवकी गौरी च लक्ष्मीश्चदितिश्च रुक्मिणी ।
कूर्मोगजेन्द्रोप्यचराचराधराः कुर्वन्तु वः पूर्णमनोरथं सदा।।
गंगा च क्षिप्रा यमुना सरस्वती गोदावरी वेत्रवती च नर्मदा ।
सा चन्द्रभागा वरुणा असीनदी कुर्वन्तु वः पूर्णमनोरथं सदा।।
तुङ्गश्रवातद् गुरुचक्रपुष्करं गयाभिमुक्तो बदरी बटेश्वरः ।
केदारपम्पासरनैमिषारकं कुर्वन्तु वः पूर्णमनोरथं सदा ।।
शंखश्च दूर्वासितपत्रचामरं मणिः प्रदीपो वररत्नकाञ्चनम्।
सुपूर्णकुम्भः सहितो हुताशनः कुर्वन्तु वः पूर्णमनोरथं सदा।।
प्रयाणकाले यदि वा सुमंगले प्रभातकाले च नृपाभिषेचने ।
व्यासेन सम्पूर्ण मनोरथाष्टकं कुर्वन्तु वः पूर्णमनोरथं सदा।।
मन्त्रार्था: सफला: सन्तु पूर्णा: सन्तु मनोरथाः।
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव।।